एव नाटकानां रचना भवति स्म परं एतादॄशी धारणा निर्मूला अस्ति ।यतः आधुनिककाले
अनेकानि नाटकानि विरचितानि सन्ति । अष्टादशशताब्देः आरभ्य अद्यावधि पर्यन्तम्
अनेकानि नाटकानि लिखितानि सन्ति तेषां सर्वेषां नाटकानां संग्रहं आचार्यरामजी उपाध्यायेन
विरचिते "आधुनिक संस्कॄत नाटक" इति नामके ग्रन्थे अस्ति । अनेन ग्रन्थानुसारेण
निम्नलिखितानि आधुनिकानि संस्कॄतनाटकानि सन्ति----
(अष्टादशशताब्देः नाटकानि)
1aआनन्दलतिका <1715>
b पदाङ्कदूतम्
नाटककारः-- कॄष्णादाससार्वभौम-भट्टाचार्यः
2 a.कुमारविजयम्
b.नवग्रहचरितम्
c. प्रचण्डराहूदयम्
नाटककारः- श्रीघनश्यामः
3. a. सभापतिविलासम्
b. राघवानन्दम्
नाटककारः- श्रीवेङ्कटेश्वरः
4. a. विद्यापरिणयम् <1711-28>*
b.जीवनन्दनम्#
नाटककारः- श्रीआनन्दराय-मखी
* प्रकाशनम्- "चौखम्भा संस्कॄत सीरीज वाराणसी", 1967 ई०# प्रकाशनम् - पुस्तकभवन वाराणसी, 1955 ई०
5. गोविन्दवल्लभनाटकम् (1725ई०)
नाटककारः- श्रीरूक्मिणीकान्तः
6.अनुमितपरिणयनाटकम्
नाटककारः-- श्रीहर्षः
7. कामकुमारहरणम् (1724-1731ई०)#
नाटककारः-- श्रीकविचन्द्रद्विजः
# प्रकाशनम्-- "असमसाहित्यसभा, चन्द्रकान्त हैन्दिक्विभवन जोरहट आसाम"
8. लक्ष्मीदेवनारायणीयम्
नाटककारः- श्रीधरः
9.चन्द्रकलाकल्याणम् (1740ई०)#
नाटककारः- श्रीनॄसिंहकविः
# प्रकाशनम्- "गायकवाड़ ओरियण्टल सीरीज संख्या-47 बड़ौदा
10. चन्द्राभिषेकनाटकम्(1740ई०)
नाटककारः-- बाणेश्वरविद्यालङ्कारः
11. प्रमुदितगोविन्दम्
नाटककारः- श्रीसदाशिवः
12. रूक्मिणीपरिणयम्*
नाटककारः-रमापति-उपाध्यायः
* प्रकाशनम्- "तीरभुक्ति, १ एलेनगंजरोड़ इलाहाबाद"
13. सीताराघवम्
नाटककारः- श्रीरामपाणिवादः
14. a. मणिमाला-नाटिका (1750ई०)
नाटककारः-अनादिमिश्रः
15.बालमार्ताण्डविजयम्(1750ई०)
नाटककारः-देवराजसूरिः
16. नवमालिका-नाटिका
नाटिकाकारः-विश्वेश्वरपाण्डेयः
17. प्रद्युम्नविजयम्
नाटककारः- शङ्करदीक्षितः
18. चण्डीनाटकम्*
नाटककारः-भरतचन्द्ररायः
*प्रकाशनम्- "भारतचन्द्रग्रन्थावली,कलकता"
19 .a. वसुमतीपरिणयम् (1759 ई०)
रतिमन्थम् (1750 ई०)
नाटककारः-श्रीजगन्नाथः
20. विवेकचन्द्रोदयम् (1763ई०)#
नाटककारः-श्रीशिवः
# प्रकाशनम्- 1966 ई०, "विश्वेश्वरानन्द इंस्टिट्यूट होशियारपुर"
21. a. वसुलक्ष्मीकल्याणम्
b.लक्ष्मीकल्याणम्
नाटककारः- श्रीसदाशिव-दीक्षितः
22. कलानन्दकम्
नाटककारः- श्रीरामचन्द्रशेखरः
23. रूक्मिणिपरिणयम्
नाटककारः-श्रीरामवर्मा
24. a.पुरञ्जनचरितम् (1777ई०)
b. कुवलयाश्वीयनाटकम्(1750ई०)
नाटककारः- श्रीकॄष्णदत्तः
25. श्रीकृष्णशॄंगारतरंदिणीनाटकम्
नाटककारः -- श्रीवेङ्कटाचार्यः
26. वसुलक्षमीक्ल्याणनाटकम्(1785ई०)#
नाटककारः-- श्रीवेङ्कटसुब्रह्मण्याध्वरी
# प्रकाशनम्- "त्रिवेन्द्रम-संस्कॄत-सीरीज"
27. विवेकमिहिरम्(1785ई०)
नाटककारः-- श्रीहरियज्वा
28. चित्रयज्ञनाटकम्
नाटकारः- श्रीवैद्यनाथवाचस्पतिभट्टाचार्यः
29. जयरत्नाकरनाटकम्(1792ई०)#
नाटककारः- शक्तिवल्लभ-अर्ज्यालः
# प्रकाशनम्- "नेपाल-सांस्कॄतिक परिषद् , संवत्-२०१४
30. मलयजाकल्यानाटिका*
नाटिकाकारः- श्रीवीरराघवः
* प्रकाशनम्- "जबलपुर से डाँ० बाबुलालशुक्ल द्वारा"
-------------------------------------------------------------------------------------
(एकोनविंशतिशताब्देः नाटकानि)
1.शंखचूड़वधम् ( 1803 ई०)#
नाटककारः-- श्रीदीनद्विजः
# प्रकाशनम्-- "आसाम साहित्यसभा आसाम"
2. अभिनवराघवम्
नाटककारः-- श्रीसुन्दरवीरः
3. इन्दुमतिपरिणयम् #
नाटककारः-- श्रीशिवाजीमहारजः
# प्रकाशनम्-- "The journal of the Tanjore maraja serfogi's sarasvati mahal Library volume-XXII-XXIII."
4.वल्लीपरिणयम्
नाटककारः-- श्रीवीरराघवः
5. a. ययातिदेवयानीचरितम्
b. ययातितरूणानन्दनम्
c. रोचानानन्दनम्
नाटककारः -- श्रीवल्लीसहायः
6. वासवीपाराशरीयम्
नाटककारः-- श्रीनरसिंहाचार्यस्वामी
7. कौमुदीसोमम्
नाटककार-- श्रीकॄष्णशास्त्री
8. वैदर्भीवासुदेवम् #
नाटककारः---- श्रीसुन्दरम्
# प्रकाशनम्-- 1888ई० "तिन्नेवली जनपद कैलाशपुर"
9. सामवतम् #
नाटककारः-- श्रीअम्बिकादत्तव्यासः
# प्रकाशनम्-- 1947ई० "व्यासपुस्तकालय मानमदिर काशी"
10. a. सावित्रीचरितम्
b. ध्रुवाभ्युदयम् (1896ई०)#
c.गोरक्षाभ्युदयम् / श्रीगोपालचिन्तामणिविजयम् $
d. श्रीकॄष्णचन्द्राभ्युदयम् (1912ई०) *
e. अमरमार्कण्डेयम्
नाटककारः-- श्रीशंकरलाल-महामहोपाध्यायः
# प्रकाशनम्--1868ई० "यशवन्तसिंह स्टीमुद्रायन्त्रालय लीबडीपुर जामनगर"
$ प्रकाशनम्-- 1901ई० "मनोरञ्जक मुद्रणालय, जामनगर",
1911ई०"यशवन्तसिंह मुद्रणालय, जामनगर"
11. माधवस्वातन्त्रयम्
नाटककारः-- श्रीगोपीनाथदीधिचः
12. सौम्यसोमम्
नाटककारः-- श्रीनिवासशास्त्री
13. a. मैथिलियम्
b. शूरमयूरम्
c शर्मिष्ठाविजयम्
d. कलिवधूननम्
e. जैत्रजैवात्रिकम्
नाटककारः-- श्रीनारायणशास्त्री
14. गैर्वाणीविजयम्
नाटककारः-- श्रीराजराजवर्मा
15. गर्वपरिणतम्
नाटककारः-नन्दलालविद्याविनोदः
16. मञ्जुलनैषधम्
नाटककारः-- महामहोपाध्यायः श्रीवेङ्कटविक्टोरिया
17.धीरनैषधम्
नाटककारः-- श्रीरामावतारशर्मा
18. अधर्मविपाकम्
नाटककारः-- श्रिअप्पाशास्त्री-राशिवडेकरः
19. पारिजातहरणम्
नाटककारः- श्रीरामनाथशिरोमणिः
20. अदितिकुण्डलाहरणम्
नाटककारः-- श्रीरामकॄष्णकादम्बः
21. रूक्मिणिस्वयंवरम्
नाटककारः-- श्रीरामकिशोरः
22. राजलक्ष्मीपरिणयम्
नाटककारः-- श्रीवेङ्कटाद्रिः
23. सत्संगविजयम्
नाटककारः-- श्रीवैद्यनाथः
24. कैवल्यवलीपरिणयम्
नाटककारः-- इल्लूरामस्वामीशास्त्री
25. द्रौपदीपरिणयम्
नाटककारः-- काशीनाथशास्त्री
<विशतिशताब्देः नाटकानि>
विंशतिशताब्देः संस्कॄतकविषु हरिदाससिद्धान्तवागीशमहाभागः सर्वप्रथमः नाटककारः अस्ति ।
अनेन महाभागेन लिखितेषु नाटकेषु विराजसरोजिनी, मिवारप्रतापम्, शिवाजीचरितम् तथा च
वङीयप्रतापम् एतानि उच्चकोटेः सुप्रसिद्धानि नाटकानि सन्ति । एतेषां नाटकानां संक्षेपेण
परिचयः निम्नलिखिताः सन्ति--
१. मिवारप्रतापम्(१९४४ई०)--->इदं नाटकं षट्सु अङ्केषु विभक्तमस्ति । अस्मिन् नाटके
महाराणाप्रतापस्य जीवनचरितस्य तथा तस्य मुगलैः सह विश्वप्रसिद्धं हल्दीघाट्याः युद्धस्य
वर्णनमस्ति ।
२.शिवाजीचरितम्(१९४५ई०)---->इदं नाटकं दश-अङ्केषु विभक्तं वर्तते । अस्मिन् नाटके
शिवाजेः चरितस्य उल्लेखं तथा च तस्य देशप्रेम्णः वर्णनमस्ति । अस्मिन् नाटके अनेकानां
सूक्तीनां संग्रहं वर्तते । यथा
- --> भूषाणां भारतीयानां मूलमेकं हि संस्कॄतम् ।
मूललोपे च शाखेव सा सर्वा शोषमेष्यति ॥
--> न खलु रासभः पादपे फलति ।
--> अग्निदाहे न मे दुःखं न दुःखं लौहताडने ।
इदमेव महद्दुःखं गुंजया सह तोलनम् ॥
३. वङ्गीयप्रतापम्(१९१७ई०) --->इदम् एकम् ऐतिहासिकं नाटकमस्ति । इदं नाटकं सप्तसु
अङ्केषु विभक्तं वर्तते। अस्य नाटकस्य सप्तमे अङ्के ऐतिहासिकाः सामग्र्यः सन्ति ।
४. विराजसरोजिनी(१९००ई०-->इयं एका नाटिका अस्ति । अस्यां नाटिकायां त्रयः अङ्काः सन्ति
त्रिषु अङ्केषु उपनिबद्धा एषा एका शॄङगाररसप्रधानिका प्रेमपरकनाटिका अस्ति । अस्यां
नाटिकायां मालवदेशस्य राजा हरिदश्वस्य तथा च वाराणस्याः गन्धर्वराजकन्यायाः सरोजिनेः
प्रेमप्रसङ्गस्य वर्णनमस्ति ।
---------------------------------------------------------------------------
वीरधर्मदर्पणम्(१९०५ई०)
अस्य नाटकस्य प्रणेता श्रीपरशुरामनारायणः अस्ति । अस्य नाटकस्य कथावस्तु महाभारतस्य
कथायाम् उपरि आश्रिता वर्तते । अस्मिन नाटके शॄंगाररसस्य सर्वथा अभावः दॄश्यते । अस्य
नाटकस्य कथावस्तु सप्तसु अङ्केषु विभक्तं वर्तते ।अस्मिन नाटके केवलं पुरूषपात्राणि एव
सन्ति । अस्य नाटकस्य विषये भण्डारकरमहोदयेन कथितं वर्तते -- "well , very welll in
places।
हरिश्चन्द्रचरितम्(१९११ ई०)
अस्य नाटकस्य रचयिता वंगवासी कविराजः रणेन्द्रनाथगुप्तमहाभागः अस्ति येन १९११ इस्वीये
वर्षे अस्य नाटकस्य रचना कृता वर्तते । अस्मिन् नाटके सत्यहरिश्चन्द्रस्य कारूण्यपूर्णायाः
चरितगाथायाः वर्णनमस्ति । अस्य नाटकस्य कथायाः माध्यमेन कविना कर्मस्योपरि धर्मस्य
श्रेष्ठता प्रतिपादिता अस्ति । इदं नाटकं पञ्चसु अङ्केष् विभक्तमस्ति । अङ्कानां विभाजनं
दॄश्येषु वर्तते । अस्य नाटकस्य इयमेव विलक्षणता वर्तते यत् अस्मिन् नाटके स्त्रीपात्रैः अपि
संस्कृतभाषायाः प्रयोगः कॄतं वर्तते ।
श्रीलक्षमणसूरेः नाट्यसाहित्यम्
लक्ष्मणसूरिमहोदयेन त्रीणि रूपकानि लिखितानि सन्ति--
१. दिल्लीसाम्राज्यम् --->
इदं नाटकं भारतस्य वायसरायः लार्डहार्डिञ्जमहोदयस्य चरितमधिकृत्य लिखितं वर्तते ।अस्मिन्
नाटके पञ्च-अङ्काः सन्ति।
२. पौलस्त्यवधम्--> अस्मिन् नाटके विराधस्य मृत्योरनन्तरस्य राम कथायाः वर्णनमस्ति या
षड्-अङ्केषु विभक्ता अस्ति ।
३. घोषयात्रा--> घोषयात्रायाः अपरं नाम युधिष्ठिरानॄशंस्यमपि अस्ति । घोषयात्रा एकं डिमकोटेः
रूपकमस्ति । अस्य कथानकं महाभारतमधिकृत्य लिखितमस्ति । अस्मिन् नाटके पाण्डवैः
दुर्योधनस्य गन्धर्वेभ्यः रक्षायाः वर्णनं कृतमस्ति । चित्ररथः नामकः एकः गन्धर्वः इन्द्रस्य
आज्ञानुसारेण दुर्योधनस्य बन्दीकॄत्वा गच्छति परं अर्जुनः तं परास्तं कृत्वा दुर्योधनस्य मुक्तं
करोति ।
------------------------------------------------------------------------------------------------
श्रीपञ्चाननतर्करत्नस्य नाट्यसाहित्यम्
पञ्चाननतर्कमहाभागः विंशतिशताब्देः कविषु अग्रगण्यः अस्ति ।अनेन महाभागेन द्वे नाटके
लिखिते स्तः-
अमरमङ्गलम् (१९१३ई०)-->
इदमेकं ऐतिहसिकं नाटकं वर्तते । अस्मिन् नाटके मेवाड़नरेशस्य महाराणाप्रतापस्य तथा तस्य
पुत्रस्य चरितस्य वर्णनं वर्तते। अस्य नाटकस्य नामकरणं महाराणाप्रतापस्य सुपुत्रस्य
अमरसिंहस्य नामोपरि कृतमस्ति । अस्य नाटकस्य कथावस्तु अष्टषु-अङ्केषु विभतमस्ति ।
२। कलङ्कमोचनम्-->
इदं पञ्चाननतर्कमहोदयस्य अपरं प्रख्यातं नाटकमस्ति । अस्मिन् नाटके श्रीराधाकृष्णयोः
लीळायाः वर्णनमस्ति ।
श्रीकालीपदस्य नाट्यसाहित्यम्
माणवकगौरवम्---> अस्मिन् नाटके प्राचीनकालस्य गुरुशिष्यपरम्परायाः वर्णनमस्ति । अस्मिन्
नाटके शिष्यानां स्वगुरूं प्रति अप्रतिमभक्तेः चित्रणं वर्तते येन ते गुरूणा आशीर्वादेन ज्ञानं
प्राप्नुवन्ति । अस्य नाटकस्य नायकः आचार्यः धौम्यः अस्ति । अस्य कथावस्तु सप्तसु-अङ्केषु
विभक्तमस्ति ।
2।प्रशान्तरत्नाकरम्--> इदं नाटकं नव-अङ्केषु विभक्तं वर्तते । अस्य नाटकस्य नायकः एकः
द्स्युः अस्ति यस्य नाम रत्नाकरः अस्ति । अस्मिन् नाटके रत्नाकरनामकस्य भिक्षुकस्य
भिक्षुकात् दस्युराजं पुनः ब्रह्मर्षिः भवितुं पर्यन्तं कथा वर्णिता वर्तते । इदं नाटकं महर्षेः
वाल्मीकेः प्रारम्भिकजीवनस्योपरि आधारिता अस्ति यः प्रारम्भे एकः द्स्युः आसीत् परं
उत्तरोत्तरे सः एकः ब्रह्मर्षिः अभवत् ।
३.नलदमयन्तीयम्(१-->९१७ई०) अस्मिन् नाटके सप्त-अङ्कानि सन्ति । नलदमयन्त्योः उपरि
अस्य नाटकस्य कथानकम् आधारितं वर्तते । अस्य नाटकस्य नायकः राजा नलः अस्ति यः
विदर्भदेशीयाः राजकुमार्याः दमयन्त्याः सौन्दर्योपरि मुग्धं भूत्वा तया सह प्रेम करोति तयोः
पारस्परिकयोः प्रेम एव अस्मिन् नाटके वर्णितमस्ति ।
४.स्यमन्तकोद्धारम्(१९३१ई०)---> एषः एकः व्यायोयगः अस्ति । अस्मिन् व्यायोगे एकः एव
अङ्कः अस्ति यः पञ्चषु- दॄश्येषु विभक्तम् अस्ति । अस्य व्यायोगस्य नायकः श्रीकॄष्णः अस्ति
यः जामवन्तं पराजितं कॄत्वा तेन स्यमन्तकमणिम् आकॄष्य उग्रसेनं दत्वा स्वकीयापवादस्य
निराकरणं करोति ।
श्रीजीवन्यायतीर्थस्य नाट्यसाहित्यम्
1. महाकविकालिदासः--> इदं नाटकं विंशतेः शताब्देः सर्वश्रेष्ठेषु नाटकेषु अनुत्तमं वर्तते । इदं
नाटकं पञ्चषु-अङ्केषु विभक्तमस्ति । अस्मिन् नाटके कालिदासविद्यावत्योः विवाहस्य कथायाः
वर्णनं वर्तते ।
२. शङ्कराचार्यवैभवम्--> अस्मिन् नाटके द्वौ-अङ्कौ स्तः । अस्मिन् नाटके भगवान् शिवः
शङ्कराचार्यस्य रूपे अवतरितं भूत्वा वेदान्तस्य ज्ञानकाण्डस्य उपदेशं करोति । वैदिकधर्मस्य
प्रचारकर्ता कुमारिलभट्टः तथा च कर्मकाण्डस्य उपदेष्टा पतञ्जलिः वरूणस्य सुधन्वायाश्च रूपे
सात्विकस्य बौद्धधर्मस्य सरक्षकौ स्तः ।
३.कुमारसम्भवम्-->अस्मिन् नाटके महाकविकालिदासस्य कुमारसम्भवनमकस्य महाकाव्यस्य
दॄश्यरूपं दत्तं वर्तते । अस्मिन् नाटके पञ्च-अङ्कानि सन्ति ।
४. रघुवंशम्---> अस्मिन् नाटके महाकवेः कालिदासस्य रघुवंशमहाकाव्यस्य नाटकीयता प्रदत्ता
अस्ति । अस्मिन् नाटके अपि पञ्च-अङ्कानि सन्ति ।
५.नागनिस्तानम् --> इदं नाटकं पञ्चषु-अङ्केषु विभक्तमस्ति । अस्मिन् नाटके महाभारतस्य
प्रसिद्धस्य नागयज्ञस्य नाटकीयरूपं प्रदत्तम् अस्ति ।
६. निगमानन्दचरित--> इदं नाटकं सप्तषु-अङ्केषु विभक्तमस्ति । इदमेकं चरितात्मकं
नाटकमस्ति ।
७।साम्यतीर्थम्--> इदं पञ्चानामङ्कानां नाटकमस्ति । इदं नाटकं रवीन्द्रनाथमहोदयस्य
कतिपयेषु निबन्धेषु आधारितमस्ति । अस्मिन् नाटके राष्ट्रियैकतायाः विचारधारायाः समुन्नयनं
कॄतं वर्तते ।
८।विवेकानन्दचरितम्--> अस्मिन् नाटके स्वामीविवेकानन्दस्य चरित्रचित्रणं वर्तते ।
एतेषां नाटकानाम् अतिरिक्तं जीवन्यायतीर्थमहाभागेन कतिपयानि प्रहसनानि अपि लिखितानि सन्ति , तेषां नामानि सन्ति--
१. विधिविपर्यासम्
२. विवाहविडम्बनम्
३। चौरचातुरीयम्
४। चण्डताण्डवम्
५.क्षुतक्षेमीयम्
६. शतवार्षिकम्
श्रीमहालिङ्ग्शास्त्रेः नाट्यसाहित्यम्
एषः दक्षिणभारतीयः अस्ति । अनेन महाभागेन त्रीणी नाटकानि लिखितानि सन्ति ---
१. उद्गातॄदशाननम्(१९२८ई०)---->इदं नाटकं सप्तष्-अङ्केषु विभक्तमस्ति । अस्मिन् नाटके
रावणेन पुष्पकविमानस्य तथा च भगवता शिवेन प्रदत्तस्य चन्द्रहासखड्गस्य प्राप्तेः वर्णनमस्ति ।
२. कलिप्रादुर्भावम्(१९३९ई०) -->अस्मिन् नाटके कलियुगस्य प्रभावस्य वर्णनमस्ति । इदं नाटकं
सप्तषु-अङ्केषु विभक्तमस्ति ।
३.श्रॄङ्गारनारदीयम्(१९३८ई०)--> अस्य नाटकस्य कथा देवीभागवतपुराणस्य नारदकथायां
मिलति । अस्य नाटकस्य नायकः नारदः अस्ति ।
-------------------------------------------------------------------------------------
रतिविजयम् (१९२८ई०)
अस्य नाटकस्य लेखकः श्रीरामास्वामीशास्त्रीमहोदयः अस्ति यः एकः जिलान्यायाधीशः आसीत्
। इदं नाटकं पञ्चसु-अङ्केषु विभक्तं वर्तते । अस्य नाटकस्य प्रणयनं कविः जगदम्बायाः
अर्चनायै कॄतमस्ति यतः सः देव्याः परमोपासकः आसीत् ।
-------------------------------------------------------------------------------------
भ्रान्तभारतम्
नाटके आधुनिकभारतस्य दशायाः वर्णनं वर्तते ।
--------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------
उपर्युक्तानां नाटकानामतिरिक्तं विंशतिशताब्देः कानिचिद् प्रसिद्धानि यानि नाटकानि सन्ति तेषां नामानि निम्नलिखितानि सन्ति-
1 a. अद्भुतांशुकम् (1931 ई०)
b.प्रतिज्ञाकौटिल्यम्
c. मंजुलमंजीरम्
d. प्रसन्नकाश्यप
e. अप्रतिमप्रतिमम्
f. प्रतिज्ञाशान्तनवम्
नाटककारः-जग्गू-श्रीवकुलभूषणः
2। a. चाणक्यविजम् (1938 ई०)
b। श्रीरामविजम् (1940ई०)
c। समाधानम् (1945ई०)
d। प्रायश्चितम् (1952ई०)
e. आत्मविक्रयम् (1953ई०)
नाटककारः-- श्रीरामनाथमिश्रः
3. a. वीरप्रतापम् (1935 ई०)
b. भारतविजयम् (1937ई०)
c. वीरपॄथ्वीराजनाटकम् (1940 ई०)
नाटककारः-- श्रीमथुराप्रसाददीक्षितः
4. काञ्चनकुञ्चिकम् (1953 ई०)
नाटककारः-- श्रीविष्णुपदभट्टाचार्यः
5. a.भारतविवेकम्व्(1961 ई०)
b. भारतहॄदयारविन्दम् (1959 ई०)
c. महाप्रभुहरिदासम् (1958 ई०)
नाटककारः- श्रीयतीन्द्रविमल-चौधुरी
6. धरित्रीपतिनिर्वाचनम् (1967 इ०)
नाटककारः---- प्रो० सिद्धेश्वरचट्टोपाध्यायः
7. कालीदासचरितम् (1967 ई०)
b. गीतगौरांगम् (1974 ई०)
नाटककारः-- डाँ० वीरेन्द्रकुमारभट्टाचार्यः
8. गणेशपरिणयम्
नाटककारः- महापण्डितः डाँ० हरिश्चन्द्र-दिवेकरः
9. a. कलिपलायनम् (1945 ई०)
b. दुर्बलबलम् (1962 ई०)
नाटककारः -- श्रीविद्याधरः
10.प्रेमपीयूषम्
नाटककारः -- डाँ० राधावल्लभत्रिपाठी
NOTE -- ये आधुनिकनाटकानां विषये अधिकं ज्ञातुम् इच्छन्ति ते निम्नलिखितं पुस्तकं पश्यतु--
लेखकः-- श्री रामजी उपाध्याय
प्रकाशक-
चौखम्भा विद्याभवन वाराणसी